|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.96. अध्यायः 096
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति राजधर्मकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-96-0x(5591)(68514)
नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिः।
अधर्मविजयं लब्ध्वा को नु मन्येत भूमिपः॥ 12-96-1(68515)
अधर्मयुक्तो विजयो ह्यध्रुवोऽस्वर्ग्य एव च।
पातयत्येव राजानं महीं च भरतर्षभ॥ 12-96-2(68516)
विशीर्णकवचं चैव तवास्मीति च वादिनम्।
कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न विहिंसयेत्॥ 12-96-3(68517)
बलेन विजितो यश्च न तं युध्येत भूमिपः।
संवत्सरं विप्रणयेत्तस्माज्जातः पुनर्भवेत्॥ 12-96-4(68518)
नार्वाक्संवत्सरात्कन्या प्रष्टव्या विक्रमाहृता।
एवमेव धनं सर्वं यच्चान्यत्सहसा हृतम्॥ 12-96-5(68519)
न तु वध्ये धनं तिष्ठेत्पिबेयुर्ब्राह्मणाः पयः।
युञ्जीरन्नप्यनडुहः क्षन्तव्यं वा पुनर्भवेत्॥ 12-96-6(68520)
राज्ञा राजैव योद्धव्यस्तथा धर्मो विधीयते।
नान्यो राजानमभ्यस्येदराजन्यः कथंचन॥ 12-96-7(68521)
अनीकयोः संहतयोर्यदीयाद्ब्राह्मणोऽन्तरा।
शान्तिमिच्छन्नुभयतो न योद्धव्यं तदा भवेत्॥ 12-96-8(68522)
मर्यादां शाश्वतीं भिन्द्याद्ब्राह्मणं योऽभिलङ्घयेत्।
अथ चेल्लङ्घयेदेव मर्यादां क्षत्रियब्रुवः।
असङ्ख्येपतदूर्ध्वं स्यादनादेयश्च संसदि॥ 12-96-9(68523)
यस्तु धर्मविलोपेन मर्यादाभेदनेन च।
तां वृत्तिं नानुवर्तेत विजिगीषुर्महीपतिः॥ 12-96-10(68524)
धर्मलब्धाद्धि विजयाल्लाभः कोऽभ्यधिको भवेत्॥ 12-96-11(68525)
सहसा न्याय्यभूतानि क्षिप्रमेव प्रसादयेत्।
सान्त्वेन भोगदानेन स राज्ञां परमो नयः॥ 12-96-12(68526)
भुज्यमाना ह्यभोगेन स्वराष्ट्रादभितापिताः।
अमित्रान्पर्युपासीरन्व्यसनौघप्रतीक्षिणः॥ 12-96-13(68527)
अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रमापदि।
संतुष्टाः सर्वतो राजन्राजव्यसनकाङ्क्षिणः॥ 12-96-14(68528)
नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथंचन।
जीवितं ह्यप्यतिच्छिन्नः संत्यजेदेकदा नरः॥ 12-96-15(68529)
अल्पेनापि च संयुक्तस्तुष्यते नापराधितः।
शुद्धं जीवितमेवापि तादृशो बहुमन्यते॥ 12-96-16(68530)
यस्य स्फीतो जनपदः संपन्नः प्रियराजकः।
संतुष्टभृत्यसचिवो दृढमूलः स पार्थिवः॥ 12-96-17(68531)
ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसत्तमाः।
पूजार्हाः पूजिता यस्य स वै लोकविदुच्यते॥ 12-96-18(68532)
एतेनैव च वृत्तेन महीं प्राप सुरोत्तमः।
अन्येऽपि चैव विजयं विजिगीषन्ति पार्थिवाः॥ 12-96-19(68533)
भूमिवर्जं धनं राजा जित्वा राजन्महाहवे।
अपि चान्नोषधीः शश्वदाजहार प्रतर्दनः॥ 12-96-20(68534)
अग्रिहोत्राग्निशेषं च हविर्भोजनमेव च।
आजहार दिवोदासस्ततो विप्रकृतोऽभवत्॥ 12-96-21(68535)
सराजकानि राष्ट्राणि नाभागो दक्षिणां ददौ।
अन्यत्र श्रोत्रियस्वाच्च तापसार्थाच्च भारत॥ 12-96-22(68536)
उच्चावचानि वित्तानि धर्मज्ञानां युधिष्ठिर।
आसन्राज्ञां पुराणानां सर्वं तन्मम रोचते॥ 12-96-23(68537)
सर्वविद्यातिरेकेण जयमिच्छेन्महीपतिः।
न मायया न दम्भेन य इच्छेद्भूतिमात्मनः॥ ॥ 12-96-24(68538)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षण्णवतितमोऽध्यायः॥ 96॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-96-4 --णयेद्दासोऽस्मीति वदेति तं शिक्षयेत्। ततः संवत्सरादूध्वरा एवाऽब्रुवन्नपि ततो जातो जेतुः पुत्रएव भवेत्। ततश्च मोक्तव्य इत्यर्थः॥ 12-96-5 नश्व संवत्सरं कन्याः स्प्रष्टव्याः सहसाहृताः इति ड. पाठः॥ 12-96-7 अभ्यस्येदभिमुखं शस्त्रं क्षिपेत्॥ 12-96-9 क्षत्रियब्रुवः क्षत्रियाधमः॥ 12-96-10 असंख्येयः क्षत्रियेषु न गणनीयः॥ 12-96-14 अमित्रोपग्रहं तद्वैरिणामानुकूल्यम्। ते बलाद्भुज्यमानाः॥ 12-96-15 विनिकर्तव्यो निकृत्य वञ्चयितव्यः॥ 12-96-21 अग्निशेषं यज्ञाङ्गभूतं हविः। भोजनं सिद्धान्नम्। एतन्न हर्तव्यमित्यर्थः। विप्रकृतो वञ्चितः॥ 12-96-23 राज्ञा सर्वं हर्तव्यमित्यर्थः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|